भगवान शिव के इस स्त्रोत Shiv Panchakam Stotram का नियमित पाठ करने से मनुष्य के जीवन से सभी कष्टों को दूर किया जा सकता है । Shiv Panchakam Stotram का पाठ करने से भगवान शिव की कृपा हमेशा बनी रहती है वह अपने भक्तों के हमेशा साथ रहते हैं ।
Shiv Panchakam Stotram
॥ शिवपञ्चाननस्तोत्रम् ॥
ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभ ।
स्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ॥
ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि- ।
र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥
॥ ॐ पश्चिमवक्त्राय नमः ॥ १ ॥
ॐ गौरं कुङ्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलं ।
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ॥
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं ।
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥
॥ॐ उत्तरवक्त्राय नमः ॥ २ ॥
ॐ कालाभ्रभ्रमराञ्जनाचलनिभं व्यादीप्तपिङ्गेक्षणं ।
खण्डेन्दुद्युतिमिश्रितोग्रदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ॥
सर्वप्रोतकपालशुक्तिसकलं व्याकीर्णसच्छेखरं ।
वन्दे दक्षिणमीश्वरस्य जटिलं भ्रूभङ्गरौद्रं मुखम् ॥
॥ॐ दक्षिणवक्त्राय नमः ॥ ३ ॥
ॐ संवर्त्ताग्नितडित्प्रतप्तकनकप्रस्पर्धितेजोमयं ।
गम्भीरस्मितनिःसृतोग्रदशनं प्रोद्भासिताम्राधरम् ॥
बालेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं ।
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥
॥ॐ पूर्ववक्त्राय नमः ॥ ४ ॥
ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतत्त्वाधिकं ।
तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभिः ॥
वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं ।
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥
॥ॐ ऊर्ध्ववक्त्राय नमः ॥ ५ ॥
एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः क्रीडन्ति नन्दनवने सह लोकपालैः ॥
॥ इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥

धन्यवाद !
Follow Me On:-
इन्हें भी पढ़े!